नमामीश्वरं सच्-चिद्-आनन्द-रूपं
लसत्-कुण्डलं गोकुले भ्राजमनम् यशोदा-भियोलूखलाद् धावमानं परामृष्टम् अत्यन्ततो द्रुत्य गोप्या ॥ १॥
रुदन्तं मुहुर् नेत्र-युग्मं
मृजन्तम्
कराम्भोज-युग्मेन सातङ्क-नेत्रम् मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ स्थित-ग्रैवं दामोदरं भक्ति-बद्धम् ॥ २॥
इतीदृक् स्व-लीलाभिर्
आनन्द-कुण्डे
स्व-घोषं निमज्जन्तम् आख्यापयन्तम् तदीयेषित-ज्ञेषु भक्तैर् जितत्वं पुनः प्रेमतस् तं शतावृत्ति वन्दे ॥ ३॥
वरं देव मोक्षं न मोक्षावधिं
वा
न चन्यं वृणे ‘हं वरेषाद् अपीह इदं ते वपुर् नाथ गोपाल-बालं सदा मे मनस्य् आविरास्तां किम् अन्यैः॥ ४॥ |
इदं ते मुखाम्भोजम्
अत्यन्त-नीलैर्
वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्या मुहुश् चुम्बितं बिम्ब-रक्ताधरं मे मनस्य् आविरास्ताम् अलं लक्ष-लाभैः॥५॥
नमो देव दामोदरानन्त
विष्णो
प्रसीद प्रभो दुःख-जालाब्धि-मग्नम् कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु गृहाणेष माम् अज्ञम् एध्य् अक्षि-दृश्यः ॥ ६॥ कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत् त्वया मोचितौ भक्ति-भाजौ कृतौ च तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ न मोक्षे ग्रहो मे ‘स्ति दामोदरेह ॥ ७॥ नमस् ते ‘स्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने त्वदीयोदरायाथ विश्वस्य धाम्ने नमो राधिकायै त्वदीय-प्रियायै नमो ‘नन्त-लीलाय देवाय तुभ्यम् ॥ ८॥ |
Monday, October 10, 2016
श्री श्री दामोदराष्टकं Sri Sri Damodarasthakam
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment